(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.30. अध्यायः 030
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-30-0x(3121)(29585)
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ 1 ॥ 4-30-1(29586)
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ 2 ॥ 4-30-2(29587)
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ 3 ॥ 4-30-3(29588)
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ 4 ॥ 4-30-4(29589)
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ 5 ॥ 4-30-5(29590)
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ 6 ॥ 4-30-6(29591)
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ 7 ॥ 4-30-7(29592)
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ 8 ॥ 4-30-8(29593)
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ 9 ॥ 4-30-9(29594)
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ 10 ॥ 4-30-10(29595)
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ 11 ॥ 4-30-11(29596)
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥ 4-30-12(29597)
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 13 ॥ 4-30-13(29598)
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ॥ 14 ॥ 4-30-14(29599)
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ 15 ॥ 4-30-15(29600)
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ 16 ॥ 4-30-16(29601)
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ 17 ॥ 4-30-17(29602)
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 18 ॥ 4-30-18(29603)
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ॥ 19 ॥ 4-30-19(29604)
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ 20 ॥ 4-30-20(29605)
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ 21 ॥ 4-30-21(29606)
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ 22 ॥ 4-30-22(29607)
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ 23 ॥ ॥ 4-30-23(29608)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.