|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.30. अध्यायः 030
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-30-0x(3121)(29585)
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ 1 ॥ 4-30-1(29586)
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ 2 ॥ 4-30-2(29587)
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ 3 ॥ 4-30-3(29588)
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ 4 ॥ 4-30-4(29589)
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ 5 ॥ 4-30-5(29590)
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ 6 ॥ 4-30-6(29591)
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ 7 ॥ 4-30-7(29592)
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ 8 ॥ 4-30-8(29593)
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ 9 ॥ 4-30-9(29594)
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ 10 ॥ 4-30-10(29595)
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ 11 ॥ 4-30-11(29596)
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥ 4-30-12(29597)
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 13 ॥ 4-30-13(29598)
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ॥ 14 ॥ 4-30-14(29599)
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ 15 ॥ 4-30-15(29600)
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ 16 ॥ 4-30-16(29601)
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ 17 ॥ 4-30-17(29602)
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 18 ॥ 4-30-18(29603)
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ॥ 19 ॥ 4-30-19(29604)
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ 20 ॥ 4-30-20(29605)
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ 21 ॥ 4-30-21(29606)
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ 22 ॥ 4-30-22(29607)
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ 23 ॥ ॥ 4-30-23(29608)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|